(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.72. अध्यायः 072
Mahabharata - Karna Parva - Chapter Topics
xxxxxxxxxxxxx तेन तन्निवेदनम्॥ 1 ॥ कृष्णेन वधप्रतिनिधित्वेन युधिष्ठिराधिक्षेपxxxxxxx॥ 2 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-72-0x(5005)(58467)
युधिष्ठिरेणैxxxxक्तः कौन्तेयः श्वेतवाहनः।
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम्॥ 8-72-1(58468)
तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा।
उवाच किमिदं खङ्गं गृह्णास्यर्जुन शंम मे॥ 8-72-2(58469)
नेह पश्यामि योद्धव्यं त्वया किञ्चिद्वनञ्जय।
नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः॥ 8-72-3(58470)
उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः॥ 8-72-4(58471)
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्।
हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत्॥ 8-72-5(58472)
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह।
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः॥ 8-72-6(58473)
कस्माद्भवान्महाखङ्गं परिगृह्णात्यकारणात्। 8-72-7(58474)
तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम्।
परामृशसि यत्क्रुद्धः खङ्गमद्भुतविक्रम॥ 8-72-8(58475)
एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम्।
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन्॥ 8-72-9(58476)
अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत्।
भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम।
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन॥ 8-72-10(58477)
यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना।
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे॥ 8-72-11(58478)
तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम्।
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम्॥ 8-72-12(58479)
एतदर्थं मया खह्गो गृहीतो यदुनन्दन।
सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः।
विशोको विज्वरश्चापि भविष्यामि जनार्दन॥ 8-72-13(58480)
किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्॥ 8-72-14(58481)
`जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः'।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्॥ 8-72-15(58482)
सञ्जय उवाच। 8-72-16x(5006)
धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः॥ 8-72-16(58483)
कृष्ण उवाच। 8-72-17x(5007)
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया।
अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात्॥ 8-72-17(58484)
न हि धर्मविगज्ञैरेवं कार्यं धनञ्जय।
यथा त्वं पाण्डवाद्येह धर्मभीरुरण्डितः॥ 8-72-18(58485)
योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते।
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः॥ 8-72-19(58486)
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः।
समासविस्तरविदां न तेषां वेत्सि निश्चयम्॥ 8-72-20(58487)
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये।
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि॥ 8-72-21(58488)
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावहुध्यसे॥ 8-72-22(58489)
अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित्।
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे॥ 8-72-23(58490)
प्राणिनां हि वधात्तात वृथा धर्मो मतो मम।
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन॥ 8-72-24(58491)
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम्।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव॥ 8-72-25(58492)
अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः॥ 8-72-26(58493)
कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव॥ 8-72-27(58494)
त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा।
तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि॥ 8-72-28(58495)
स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि।
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम्॥ 8-72-29(58496)
इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव।
यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः॥ 8-72-30(58497)
विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी।
कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी।
तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय॥ 8-72-31(58498)
सत्यस्यं वचनं साधु न सत्याद्विद्यते परम्।
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः॥ 8-72-32(58499)
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्॥ 8-72-33(58500)
विवाहकाले रतिसम्प्रयोगे
प्राणात्यये सर्वत्रनापहारे।
विप्रस्य चार्थे ह्यनृतं वदेत
पञ्चानृतान्याहुरपातकानि॥ 8-72-34(58501)
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्॥
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्॥ 8-72-35(58502)
तादृशो हन्यते बालो यस्य सत्यमनिश्चितम्।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ 8-72-36(58503)
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव॥ 8-72-37(58504)
किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः।
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः॥ 8-72-38(58505)
अर्जुन उवाच। 8-72-39x(5008)
आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा।
वलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च॥ 8-72-39(58506)
वासुदेव उवाच। 8-72-40x(5009)
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत।
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः॥ 8-72-40(58507)
वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्।
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः॥ 8-72-41(58508)
स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित्।
अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम्॥ 8-72-42(58509)
अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा।
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च॥ 8-72-43(58510)
अप्सरोगीतवादित्रैर्नादितं च मनोरमम्।
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया॥ 8-72-44(58511)
तद्भूतं सर्वभूतानामभावाय किलार्जुन।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा॥ 8-72-45(58512)
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम्।
बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः॥ 8-72-46(58513)
कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः।
नदीनां सङ्गमे ग्रामाददूरे स किलावसत्॥ 8-72-47(58514)
सत्यं मया सदा वाच्यमिति तस्याभवद्द्वतम्।
सत्यवादीति विख्यातः स तदासीद्धनञ्जय॥ 8-72-48(58515)
अथ दस्युभयात्केचित्तदा तद्वनमाविशन्।
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः॥ 8-72-49(58516)
अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम्।
कतरेण पथा याता भगवन्निति वै जनाः।
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः॥ 8-72-50(58517)
श्रीकृष्ण उवाच। 8-72-51x(5010)
सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह।
बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः।
इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः॥ 8-72-51(58518)
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः।
ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः॥ 8-72-52(58519)
गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित्।
दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः॥ 8-72-53(58520)
वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति॥ 8-72-54(58521)
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति।
दुष्करं प्रतिसंख्यानं कार्त्स्न्येनात्र व्यवस्थितिः॥ 8-72-55(58522)
सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः।
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते॥ 8-72-56(58523)
श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः।
न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते॥ 8-72-57(58524)
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः।
अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम्।
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः॥ 8-72-58(58525)
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्।
यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः॥ 8-72-59(58526)
येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः।
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन॥ 8-72-60(58527)
अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात्।
येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित्।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चित्म्॥ 8-72-61(58528)
प्राणात्यये विवाहे वा सर्वजात्या महाभये।
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत्॥ 8-72-62(58529)
अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः।
सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः॥ 8-72-63(58530)
यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि।
भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम्॥ 8-72-64(58531)
न च तेभ्यो धनं देयं सत्यादिति कथञ्चन।
पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत्।
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्॥ 8-72-65(58532)
एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि।
एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः॥ 8-72-66(58533)
अर्जुन उवाच। 8-72-67x(5011)
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः॥ 8-72-67(58534)
सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया।
भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च।
गतिश्च परमा कृष्ण त्वमेव च परायणम्॥ 8-72-68(58535)
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित्।
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम्॥ 8-72-69(58536)
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम्।
अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम्॥ 8-72-70(58537)
इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम्॥ 8-72-71(58538)
जानासि दाशार्ह मम व्रतं तु
यो मां ब्रूयात्कश्चन मानुषेषु।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ
यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः॥ 8-72-72(58539)
हन्यामहं केशव तं प्रसह्य
भीमो हन्यात्तूवरकेति चोक्तः।
वन्मां राजा ह्युक्तवांस्ते समक्षं
धनुर्देहीत्यसकृद्वृष्णिवीरे॥ 8-72-73(58540)
तं हन्यां चेत्केशव जीवलोके
स्थाता नाहं कालमप्यल्पमात्रम्।
ध्यात्वा नूनं ह्येनसा चापि मुक्तो
वधं राज्ञो भ्रष्टवीर्यो विचेताः॥ 8-72-74(58541)
यथा प्रतिज्ञा मम लोकबुद्धौ
भवेत्सत्या धर्मभृतां वरिष्ठ।
यथा जीवत्पाण्डवोऽहं च कृष्ण
तथा बुद्धिं दातुमप्यर्हसि त्वम्॥ 8-72-75(58542)
वासुदेव उवाच। 8-72-76x(5012)
राजा श्रान्तो विक्षतो दुःखितश्च
कर्णेन सह्ख्ये निशितैर्बाणसङ्घैः।
यश्चानिशं सूतपुत्रेण वीर
शरैर्भृशं ताडितो युध्यमानः॥ 8-72-76(58543)
अतस्त्वमेतेन सरोषमुक्तो
दुःखान्वितेनेदमयुक्तरूपम्।
अकोपितो ह्येष यदि स्म सङ्ख्ये
कर्णं न हन्यादिति चाब्रवीत्सः॥ 8-72-77(58544)
जानाति तं पाण्डव एष चापि
पापं लोके कर्णमसह्यमन्यैः।
ततस्त्वमुक्तो भृशरोषितेन
राज्ञा समक्षं परुषाणि पार्थ॥ 8-72-78(58545)
नित्योद्युक्ते सततं चाप्रसह्ये
कर्णे द्यूतं ह्यद्य रणे निबद्धम्।
तस्मिन्हते कुरवो निर्जिताः स्यु--
रेवं बुद्धिः पार्थिवे धर्मपुत्रे॥ 8-72-79(58546)
ततो बधं नार्हति धर्मपुत्र--
स्त्वया प्रतिज्ञाऽर्जुन पालनीया।
जीवन्नयं येन मृतो भवेद्धि
तन्मे निबोधेह तवानुरूपम्॥ 8-72-80(58547)
यदा मानं लभते माननार्ह--
स्तदा स वै जीवति जीवलोके।
यदाऽवमानं लभते महान्तं
तदा जीवन्मृत इत्युच्यते सः॥ 8-72-81(58548)
सम्मानितः पार्थिवोऽयं सदैव
त्वया च भीमेन तथा यमाभ्याम्।
वृद्धैश्च लोके पुरुषैश्च शूरै--
स्तस्यापमानं कलया प्रयुङ्क्ष्व॥ 8-72-82(58549)
त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम्।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत॥ 8-72-83(58550)
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे।
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह॥ 8-72-84(58551)
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः।
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा॥ 8-72-85(58552)
अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः।
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित्॥ 8-72-86(58553)
यदा ह्यं पाण्डव धर्मराज--
सत्वत्तोऽयुक्तं लप्स्यते चैव साधु।
ततोऽस्य पादावभिवाद्य पश्चा--
च्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च॥ 8-72-87(58554)
भ्राता प्राज्ञस्तव कोपं न जातु
कुर्याद्राजा धर्ममार्गानुसारी।
मुक्तोऽनृताद्वातृवधाच्च पापा--
द्धृष्टः कर्णं त्वं जहि पार्थ पश्चात्॥ ॥ 8-72-88(58555)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विसप्ततितमोऽध्यायः॥ 72 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-72-22 सुखं अनधीत्येत्यर्थः। श्रुतेन शास्त्रेण॥ 8-72-26 अशत्रोः अशातनीयस्य अवध्यस्य॥ 8-72-47 तपस्वीनः तपस्विनामिनः श्रेष्ठः॥ 8-72-52 यथा चाल्पश्रुतो मूढो धर्माणामविभागवित्। वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिहार्हति। इति ङ. पाठः॥ 8-72-57 तत्र ते लक्षणोद्वेशात्कश्चिदत्र भविष्यति इति क.ड.पाठः। दुष्करं परमं ज्ञानं तर्केणानुव्यवस्याति इति ड.पाठः। दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनास्य व्यवस्यति इति व.घ.ड.पाठः। श्रुतेर्धर्म इति ह्येके इति ड.पाठः॥ 8-72-62 प्राणात्यये विधाहे वा सर्वज्ञातिवधात्यये। नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत् इति झ.ङ.पाठः॥ 8-72-63 अधर्मं नात्र पश्यन्ति धर्मतत्वार्थदर्शिनः इति ङ.पाठः॥ 8-72-64 यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि। श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम्। इति ङ. पाठः॥ 8-72-65 शक्ये सति कथञ्चन इति ङ. पाठः॥ 8-72-70 अनुग्रहं अवधेन प्रतिज्ञारक्षणम्॥ 8-72-74 तं हन्यामिति स्थाता न न स्थास्ये। एनसा मुक्तोपि कृतप्रायश्चित्तोऽपि न स्थास्ये इत्यर्थः। किं कृत्वा राज्ञो वधं ध्यात्वा॥ 8-72-78 समक्षं आवयोरिति शेषः॥ 8-72-79 कर्णे पणीकृते। द्युतं युद्धरूपम्॥ 8-72-83 अत्र भवन्तं मान्यं त्वमिति ब्रूहि॥ 8-72-84 एवं पूज्यावमानरूपं संयोगं आत्मनानुष्ठितं कुरुष्व॥ 8-72-86 यत् गुरुस्त्वमिति प्रोक्तस्तत् अवधेन शंस्त्रपातनमन्तरेणैव वधः वधकरं भवतीत्यर्थः॥ 8-72-72 द्विसप्ततितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.